index int64 1 616k | Sanskrit stringlengths 5 4.23k | Tokens stringlengths 1 4.86k ⌀ |
|---|---|---|
1 | आ पामरप्रसिद्धोऽपि तथैव मृगसारसः । श्यैनिकज्ञस्य हृदये विशेषान्मुदमृच्छति ॥ ३ ॥ | आ, पामर, प्रसिद्धोऽ, अपि, तथै, ऐव, मृगसा, अरसः, श्यैनिक, ज्ञस्य, हृदये, विशेषान्, मुदम्, ऋच्छति |
2 | इति सद्रसनिष्पत्त्यै श्यैनिकं सप्रयोजनम् । विविच्यते मृगयायाः समासव्यासयोगतः ॥ ४ ॥ | इति, सद्रस, निष्पत्त्यै, श्यैनिकम्, स, प्रयोजनम्, विविच्य, अते, मृगयायाः, समासव्यासयोगतः |
3 | कामशास्त्रानभिज्ञानां कामः किं नु न गोचरः । तथापि मुनिभिः शास्त्रं निर्मितं तत्त्वसंविदे ॥ २ ॥ | कामशास्त्रा, अनभिज्ञानाम्, कामः, किम्, नु, न, गोचरः, तथा, अपि, मुनिभिः, शास्त्रम्, निर्मितम्, तत्त्व, संविदे |
4 | त्रैलोक्यश्रेयसे विष्णोर्यन्मित्रं साम्परायिकम् । सापत्नमिन्द्रस्य च तत् वन्दे गारुत्मतं महः ॥ १ ॥ | त्रैलोक्य, श्रेयसे, विष्णोर्, यन्, मित्रम्, साम्परायिकम्, सापत्नम्, इन्द्रस्य, च, तत्, वन्दे, गारुत्मतम्, महः |
5 | नृणां प्राग्दृष्टभोगाप्त्यै विनोदा मनसो मुदे । सृष्टा विश्वसृजा कार्त्स्न्यात्के तान् गणितुमीशते ॥ ५ ॥ | नृणाम्, प्राग्, दृष्ट, भोगा, अप्त्यै, विनोदा*, मनसो*, मुदे, सृष्टा*, विश्वसृजा, कार्त्स्न्यात्, के, तान् |
6 | तेषु येऽष्टादश प्रोक्ता व्यसनानीति यान्विदुः । तैर्विना नेन्द्रियफलं न एव रसभूमयः ॥ ६ ॥ | तेषु, येऽ, अष्टादश, प्रोक्ता*, व्यसनानी, इति, यान्, विदुः, तैर्, विना*, ने, इन्द्रिय, फलम्, न*, एव, रसभूमयः |
7 | सेव्यमानाः सुखायालं भवन्ति प्राणिनां च ते । यथाकालं यथापोषं विशेषेण महीभृताम् ॥ ७ ॥ | सेव्यमानाः, सुखाया, अलम्, भवन्ति, प्राणिनाम्, च, ते, यथाकालम्, यथा, अपोषम्, विशेषेण, महीभृताम् |
8 | व्यसनानीति सततं शास्त्रकारैर्विनिन्दिताः । श्रूयन्ते चेतिहासाश्च तद्रक्तभ्रंशसूचकाः ॥ ८ ॥ | व्यसनानी, इति, सततम्, शास्त्रकारैर्, विनिन्दिताः, श्रूयन्ते, चेति, हासाश्, च, तद्, रक्तभ्रंश, सूचकाः |
9 | निषिद्धैव मृगव्या चेत्तर्हि यागादिसाधनम् । क्व मांसाजिनशृङ्गादि लभ्यते विधिनोदितम् ॥ १० ॥ | निषिद्धै, ऐव, मृगव्या, यागा, अदि, साधनम्, क्व, मांसा, अजिन, शृङ्गादि, लभ्यते, विधिनो, उदितम् |
10 | यदि सर्वात्मनासेव्याः स्मरस्मेरालसेक्षणाः । पुन्नाम्नो नरकात्त्रात्री भवेत्क्व जनिरौरसी ॥ ९ ॥ | यदि, सर्वात्मना, असेव्याः, स्मरस्मेरा, अलसेक्षणाः, पुन्नाम्नो*, नरकात्, त्रात्री, भवेत्, क्व, जनिर्, औरसी |
11 | स सन्न्यासस्तु सिध्येत मनोवाक्कायकर्मभिः । कृतेन तेन जायेत ब्रह्म वाचामगोचरम् ॥ १४ ॥ | स, सन्न्यासस्, तु, सिध्येत, मनो, उवा, अक्काय, कर्मभिः, कृतेन, तेन, जायेत, ब्रह्म, वाचाम्, अगोचरम् |
12 | अजीर्णाद्यामयध्वंसो दिवास्वप्ननिषेवणात् । त्रिवर्गसाधनस्येह जायते वपुषस्तथा ॥ ११ ॥ | अजीर्णाद्, याम, य, अध्वंसो*, दिवास्वप्न, निषेवणात्, त्रिवर्ग, साधनस्ये, इह, जायते, वपुषस्, तथा |
13 | तस्मात्सर्वात्मना त्याज्यः सङ्ग एवेति निश्चयः । बन्धः सङ्गेन भवतीत्येव भागवतोक्तयः ॥ १२ ॥ | तस्मात्, सर्वात्मना, त्याज्यः, सङ्ग*, एवे, इति, निश्चयः, बन्धः, सङ्गेन, भवती, इत्ये, एव, भागवतो, उक्तयः |
14 | कर्ममात्रपरित्यागः स तु मोक्षाय केवलम् । जात्युक्तकर्माचरणं त्रिवर्गाय किलेष्यते ॥ १३ ॥ | कर्ममात्र, परित्यागः, स, तु, मोक्षाय, केवलम्, जात्युक्त, कर्माचरणम्, त्रिवर्गाय, किले, इष्यते |
15 | यदि निःश्रेयसे सङ्गजिहासा कर्मणाम्भवेत् । जन्तोः सुकृतपुञ्जेन तदा सन्न्यासमाचरेत् ॥ १५ ॥ | यदि, निःश्रेयसे, सङ्ग, जिहासा, कर्मणाम्, भवेत्, जन्तोः, सुकृतपुञ्जेन, तदा, सन्न्यासम्, आ, चरेत् |
16 | क्षयहेतुश्च भोगोऽपि श्रूयते कर्मणां यथा । सिषेवे विषयान् ज्ञानी सौभरिर्बन्धमुक्तये ॥ १६ ॥ | क्षयहेतुश्, च, भोगोऽ, अपि, श्रूयते, कर्मणाम्, यथा, सिषेवे, विषयान्, ज्ञानी, सौभरिर्, बन्धमुक्त, ये |
17 | तथाच गाथाः श्रूयन्ते पितृभिः समुदाहृताः । विरक्तस्य रुचेः सम्यक्श्रेयसे हृदयंगमाः ॥ १७ ॥ | तथा, अच, गाथाः, श्रूयन्ते, पितृभिः, समुदाहृताः, विरक्तस्य, रुचेः, सम्यक्श्रेयसे, हृदयङ्गमाः |
18 | क्षीणाधिकारो धर्मज्ञस्ततः शममवाप्स्यसि । तथा भागवतं वाक्यं श्रूयते चार्जुनं प्रति ॥ १९ ॥ | क्षीणाधि, कारो*, धर्मज्ञस्, ततः, शमम्, अवा, आप्स्यसि, तथा*, भागवतम्, वाक्यम्, श्रूयते, चा, अर्जुनम्, प्रति |
19 | पूर्वकर्म कृतं भोगैः क्षीयतेऽहर्निशं तथा । सुखदुःखैः स्वकैर्वत्स पुण्यापुण्यात्मकं नृणाम् ॥ १८ ॥ | पूर्वकर्म, कृतम्, भोगैः, क्षीयतेऽ, अहर्निशम्, तथा, सुखदुःखैः, स्वकैर्, वत्स, पुण्या, पुण्यात्म, कम्, नृणाम् |
20 | कुरु कर्मैव तस्मात्त्वं कर्म ज्यायो ह्यकर्मणः । शरीरयात्रापि च ते न प्रसिध्येदकर्मणः ॥ २० ॥ | कुरु, कर्मै, ऐव, तस्मात्, त्वम्, कर्म, ज्यायो*, ह्य, अकर्मणः, शरीरयात्रा, अपि, च, ते, न, प्र, सिध्येद्, अकर्मणः |
21 | शास्त्रान्तरेऽपि भूयस्यः श्रूयन्ते तत्त्ववादिनाम् । गृहाश्रमाचारवतां कर्मसंप्रेरिका गिरः ॥ २१ ॥ | शास्त्रा, आन्तरेऽ, अपि, भूयस्य, अः, श्रूयन्ते, तत्त्ववादिनाम्, गृहाश्रमा, आचारवताम्, कर्मसम्, प्रे, इरिका*, गिरः |
22 | न्यायागतधनस्तत्त्वज्ञाननिष्ठोऽतिथिप्रियः । श्राद्धकृत्सत्यवादी च गृहस्थोऽपि विमुच्यते ॥ २२ ॥ | न्यायागत, धनस्, तत्त्वज्ञाननिष्ठोऽ, अतिथिप्रियः, श्राद्धकृत्, सत्यवादी, च, गृहस्थोऽ, अपि, विम्, उच्यते |
23 | इत्यादिवेदवचनैः कर्मजानामपीष्यते । भोगः फलानां प्राप्तानां स तु संगविवर्जितः ॥ २३ ॥ | इत्यादि, वेदवचनैः, कर्मजानाम्, अपी, इष्यते, भोगः, फलानाम्, प्राप्तानाम्, स, तु, सङ्गविवर्जितः |
24 | श्रूयते जनको राजा प्रजापालनतत्परः । भुञ्जन्भोगान्मुक्तिपात्रमसक्तिस्तत्र कारणम् ॥ २४ ॥ | श्रूयते, जनको*, राजा, प्रजापालन, तत्परः, कारणम् |
25 | अयमप्यपवर्गस्य मार्गः प्रकृतिसुन्दरः । स्वजात्युक्ताभिचरणात्स्वर्गस्तु सुलभो नृणाम् ॥ २५ ॥ | अयम्, अप्य, अपवर्गस्य, मार्गः, प्रकृति, सुन्दरः, स्वजात्यु, उक्ता, अभिचरणात्, स्वर्गस्, तु, सुलभो*, नृणाम् |
26 | स्वर्ग्यं यशस्यमायुष्यं कर्म कुर्वीत तत्परः । कुर्वन्नेवेह कर्माणीत्यादि वेदेऽपि निश्चयः ॥ २६ ॥ | स्वर्ग्यम्, यशस्यम्, आयुष्यम्, कर्म, कुर्वीत, तत्परः, कुर्वन्न्, एवे, इह, कर्माणी, इत्यादि, वेदेऽ, अपि, निश्चयः |
27 | सुकृतैः प्राप्यते सम्पत्सा च भोगाय चेष्यते । स भोगोऽष्टादशविधैर्व्यसनैश्चानुबध्यते ॥ २७ ॥ | सुकृतैः, प्राप्य, अते, सम्पत्, सा, च, भोगाय, चेष्यते, स, भोगोऽ, अष्टादश, विधैर्, व्यसनैश्, चा, अनु, बध्यते |
28 | पृथक्तेभ्यो भीमरूपो न कुत्रापि प्रतीयते । भक्ष्यस्रक्चन्दनादेर्यः सोऽपि तादर्थकः स्मृतः ॥ २८ ॥ | पृथक्ते, इभ्यो*, भीमरूपो*, न, कुत्रापि, प्रती, इयते, भक्ष्य, स्रक्, चन्दनादेर्, यः, सोऽ, अपि, ताद्, अर्थ, कः, स्मृतः |
29 | अतो वसन्तवर्षर्तुचन्दनेन्दूदयादयः । मुदे कान्तोपगूढानामुद्वेगाय वियोगिनाम् ॥ २९ ॥ | अतो*, वसन्त, वर्षर्तु, चन्दने, इन्दूदयाद्, अयः, मुदे, कान्तो, उपगूढानाम्, उद्वेगाय, वियोगिनाम् |
30 | धर्मद्रुमस्य फलमर्थमुदीरयन्ति शास्त्रेषु निश्चितधियो हि यथागमेन । तं दानभोगविधये सुजनो नियुङ्क्ते सम्यक्तयोः परिणतिः सुषमानुपैति ॥ ३० ॥ | धर्मद्रुमस्य, फलम्, अर्थम्, उदीरयन्ति, शास्त्रेषु, निश्चित, धियो*, हि, यथागमेन, तम्, दान, भोग, विधये, सुजनो*, नि, युङ्क्ते, सम्यक्तयोः, परिणतिः, सुषमान्, उपै, एति |
31 | इति श्रीकूर्माचलाधिपतिरुद्रदेवविरचिते श्यैनिके शास्त्रे कर्मानुषञ्जनः प्रथमः परिच्छेदः ॥ ३१ ॥ | इति, श्री, कूर्मा, अचला, अधिपतिर्, उद्र, देववि, रचिते, श्यैनिके, शास्त्रे, कर्मा, आनुषञ्जन्, अः, प्रथमः, परिच्छेदः |
32 | वाक्पारुष्याद्यभिहितस्तथाष्टादशको गणः । हेयाहेयप्रकारेण नामतश्चाथ कथ्यते ॥ १ ॥ | वाक्पारुष्याद्, य, अभिहितस्, तथाष्, टाद्, अश, को*, गणः, हेयाहेय, प्रकारेण, नामतश्, चात्, ह, कथ्यते |
33 | वाग्दण्डयोश्च पारुष्ये ईर्ष्यासूया च साहसम् । अर्थदूषणपैशुन्ये क्रोधजे क्रोध एव च ॥ २ ॥ | वाग्दण्डयोश्, च, पारुष्ये, ईर्ष्यासू, उया, च, साहसम्, अर्थदूषण, पैशुन्ये, क्रोधजे, क्रोध*, एव, च |
34 | स्त्रियोऽक्षा मदिरागीतनृत्यवाद्यवृथाटनम् । परोक्षनिन्दाहःस्वप्नो मृगया चेति कामजः ॥ ३ ॥ | स्त्रियोऽ, अक्षा*, मदिरा, गीतनृत्य, वाद्य, वृथाटनम्, परोक्षनिन्दा, अहःस्वप्नो*, मृगया, चेति, कामजः |
35 | अश्लीला कर्कशा चोक्तिर्वाक्पारुष्यमितीष्यते । दण्डेषु व्यवहारे च शोभते नान्यदा क्वचित् ॥ ४ ॥ | अश्लीला, कर्कशा, चो, उक्तिर्, वाक्पारुष्यम्, इती, इष्यते, दण्डेषु, व्यवहारे, च, शोभते, नान्य, अदा, क्व, अचित् |
36 | दण्डोऽनर्हे महोग्रश्च दण्डपारुष्यमुच्यते । प्रतापजननायालं संकटे नान्यदा चरेत् ॥ ५ ॥ | दण्डोऽ, अनर्हे, महोग्रश्, च, दण्डपारुष्यम्, उच्यते, प्रताप, जननाया, अलम्, सङ्कटे, नान्य, अदा, चरेत् |
37 | परर्द्धिष्वक्षमा चेर्ष्या सा सपत्ने प्रशस्यते । तदुच्छेदाय यतते तथैवोत्तेजितो यतः ॥ ६ ॥ | परर्द्धिष्व, अक्षमा, चे, इर्ष्या, सा, सपत्ने, प्रशस्यते, तद्, उच्छेदाय, यतते, तथै, ऐवो, उत्तेजितो*, यतः |
38 | दोषारोपो गुणादौ यः सासूयेति निगद्यते । विदूषकादिभिः सा तु रहोगोष्ठ्यां प्रशस्यते ॥ ७ ॥ | दोषारोपो*, गुणा, अदौ, यः, सासूये, इति, निग, द्य, ते, विदूषकाद्, इभिः, सा, तु, रहोगोष्ठ्या, आम्, प्रशस्यते |
39 | क्रियमाणा तत्प्रपञ्चो नाटकादौ निरीक्ष्यताम् । आख्यायिकादिष्वपि च समासव्यासयोगतः ॥ ८ ॥ | क्रियमाणा, तत्, प्रपञ्चो*, नाटका, अदौ, निरीक्ष्य, ताम्, आख्यायिका, आदिष्व, अपि, च, समासव्यासयोगतः |
40 | प्राणसन्देहकृत्कार्यं कृतं साहसमुच्यते । तदापत्सु च शोभायै भवेद्धास्याय चान्यदा ॥ ९ ॥ | प्राणसन्देह, कृत्, कार्यम्, कृतम्, साहसम्, उच्यते, तदा, आपत्सु, च, शोभायै, भवेद्ध्, हास्याय, चान्य, अदा |
41 | सूचनं परदोषाणां पैशुन्यमिति गीयते । तच्चारमुखतः सर्वं श्रोतव्यं स्वधिया पुनः । निश्चित्य चारैरन्यैश्च प्रतीकारं तदाचरेत् ॥ ११ ॥ | सूचनम्, परदोषाणाम्, पैशुन्यम्, इति, गीयते, तच्, चारम्, उख, तः, सर्वम्, श्रोतव्यम्, स्व, धिया, पुनः, निश्चित्य, चारैर्, अन्यैश्, च, प्रतीकारम्, तदा, चरेत् |
42 | प्रकीर्णता चाग्रहणमपात्रे प्रतिपादनम् । मूलच्छेदेन वा दानप्रतिपत्त्यर्थदूषणम् । तत्प्रयत्नेन चाप्तैस्तु कारयेत्परमण्डले ॥ १० ॥ | प्रकीर्णता, चा, अग्रहणम्, अपात्रे, प्रतिपादनम्, मूलच्छेदेन, वा*, दानप्रतिपत्त्य, अर्थदूषणम्, तत्, प्रयत्नेन, चा, अप्तैस्, तु, कारयेत्, परमण्डले |
43 | सुलक्षणा कलाभिज्ञा दक्षा सौभाग्यसंयुता । वयोविनयसम्पन्ना सा स्त्री स्त्रीत्युच्यते बुधैः ॥ १३ ॥ | सुलक्षणा, कलाभिज्ञा*, दक्षा, सौभाग्य, संयुता, वयो, विनय, सम्पन्ना, सा, स्त्री, स्त्री, ईत्यु, उच्यते, बुधैः |
44 | दण्डादिपातने क्रौर्य्यं क्रोध इत्युच्यते बुधैः । सदापकारिषु च तं विदध्यान्नेतरेषु च ॥ १२ ॥ | दण्डा, अदि, पातने, क्रोध*, इत्यु, उच्यते, बुधैः, सदाप, कारिषु, च, तम्, विद, ध्या, आन्ने, इतरेषु, च |
45 | साधनं सा त्रिवर्गस्य गृहस्थाश्रमलक्ष्म च । प्रसूत्युपस्करप्रेक्षामनःप्रह्लादनादिभिः ॥ १४ ॥ | साधनम्, सा, त्रिवर्गस्य, गृहस्थाश्रम, लक्ष्म, च, प्रसूत्यु, उपस्कर, प्रेक्षाम्, अनः, प्रह्लादनाद्, इभिः |
46 | धर्म्मादर्थोऽर्थतः कामः कामः स्त्रीभ्यो न चान्यतः । तेन धर्म्मद्रुमस्याहो फलं रक्ता नितम्बिनी ॥ १६ ॥ | कामः, कामः, स्त्रीभ्यो*, न, चान्य, अतः, तेन, फलम्, रक्ता*, नितम्बिनी |
47 | एतत्कुमारेणाप्युक्तं पुरागस्त्याय पृच्छते । यत्रानुकूल्यं दम्पत्योस्त्रिवर्गस्तत्र वर्धते ॥ १५ ॥ | एतत्, कुमारेणा, अप्यु, उक्तम्, पुरा, अगस्त्याय, पृच्छते, यत्रान्, उक्, ऊल्य, अम्, दम्पत्योस्, त्रिवर्गस्, तत्र, वर्धते |
48 | अतस्तां सर्वभावेन पुमांश्चैवानुरञ्जयेत् । स्वच्छन्दाचरणं हित्वा कामसंवेदनादिषु ॥ १७ ॥ | अतस्, ताम्, सर्वभावे, इन, पुमांश्, चै, एवान्, उर्, अञ्जयेत्, स्वच्छन्दा, अचरणम्, हित्वा, कामसंवेदनाद्, इषु |
49 | कामश्चानन्यमनसोर्दम्पत्योर्यः परस्परम् । आत्मैकवेद्यो नाख्येयः स्पर्शः काम इतीरितः ॥ १८ ॥ | कामश्, चान्, अन्यमनसोर्, दम्पत्योर्, यः, परस्परम्, आत्मै, एकवेद्यो*, नाख्ये, इयः, स्पर्शः, काम*, इतीर्, रितः |
50 | गुणाढ्यव्यासवाल्मीकिसूक्तिमुक्तार्णवेषु च । सम्भोगविप्रलम्भाभ्यां प्रपञ्चस्तस्य विस्तरः ॥ १९ ॥ | गुणाढ्य, व्यास, वाल्मीकिसूक्तिम्, उक्ता, अर्णवेषु, च, सम्भोग, विप्रलम्भाभ्याम्, प्रपञ्चस्, तस्य, विस्तरः |
51 | यत्पानात्मत्ततामेति तद्वस्तु मदिरोच्यते । अचिकित्स्येष्वामयेषु तज्ज्ञैः सापि प्रशस्यते ॥ २१ ॥ | यत्, पानात्, मत्त, तामे, इति, तद्, वस्तु, मदिरो, उच्यते, अचिकित्स्येष्वा, आमयेषु, तज्ज्ञैः, सा, अपि, प्रशस्यते |
52 | क्रीडा सजीवनिर्जीवा ग्लहपूर्वाक्ष उच्यते । स चार्थवृद्ध्यै कामर्द्ध्यै सुप्रयुक्तः प्रजायते ॥ २० ॥ | क्रीडा, सजीव, निर्जीवा*, ग्लह, पूर्वा, आक्ष*, उच्यते, स, चा, अर्थवृद्ध्यै, कामर्, ऋद्ध्यै, सुप्रयुक्तः, प्रजाय, ते |
53 | यथावकाशेन च तच्चतुर्वर्गस्य साधनम् । प्रत्यक्षेणार्थकामस्य सिद्धिगाने प्रदृश्यते ॥ २३ ॥ | यथा, अवकाशेन, च, तच्, चतुर्वर्गस्य, साधनम्, प्रत्यक्षेणा, अर्थकामस्य, सिद्धिगाने, प्र, दृश्यते |
54 | गेयं यद्रक्तकण्ठस्य तालस्वरसमन्वितं । लास्योपयोगि तदेति गीतज्ञास्तद्विजानते ॥ २२ ॥ | गेयम्, यद्, रक्तकण्ठस्य, तालस्वर, समन्वितम्, लास्यो, उपयोगि, तदे, इति, गीतज्ञास्, तद्, विजानते |
55 | धर्म्मापवर्गयोः सिद्धिर्भरतेन यथोदिता । याज्ञवल्क्येन मुनिना तथान्यैर्नारदादिभिः ॥ २४ ॥ | सिद्धिर्, भरतेन, यथोदिता, याज्ञवल्क्येन, मुनिना, तथान्यै, ऐर्, नारदाद्, इभिः |
56 | गीतज्ञो यदि गीतेन नाप्नोति परमं पदम् । रुद्रस्यानुचरो भूत्वा तेनैव सह मोदते ॥ २५ ॥ | गीतज्ञो*, यदि, गीतेन, नाप्, नो, ऊति, परमम्, पदम्, रुद्रस्या, अनुचरो*, भूत्वा, तेनै, ऐव, सह, मोदते |
57 | परोक्षनिन्दा व्यक्तार्था सातिसंधातुमिष्यते ॥ २९ ॥ | परोक्षनिन्दा*, व्यक्ता, अर्था, साति, सन्धात्, उम्, इष्यते |
58 | उद्धतं ताण्डवं यच्च लास्यं चाभिनयात्मकम् । चारालयममायुक्तं द्विविधं नृत्यमुच्यते ॥ २६ ॥ | उद्धतम्, ताण्डवम्, यच्, च, लास्यम्, चा, अभिनयात्मकम्, चारा, अलयम्, अमा, अयुक्तम्, द्विविधम्, नृत्यम्, उच्यते |
59 | चतुर्विधं वाद्यमुक्तं तत्ततादिप्रभेदतः । प्रयोजनं गीतवच्च विज्ञेयं नृत्यवाद्ययोः ॥ २७ ॥ | चतुर्विधम्, वाद्यम्, उक्तम्, तत्, तता, अदि, प्रभेद, तः, प्रयोजनम्, गीत, व, अच्, च, विज्ञेयम्, नृत्य, वाद्ययोः |
60 | कार्यं विना यदुद्याननगराद्युपसर्पणम् । वृथाटनं तच्छस्तं तु शरीरालस्यशान्तये ॥ २८ ॥ | कार्यम्, विना*, यदु, द्या, आनन, गराद्, यु, उपसर्पणम्, वृथाटनम्, तच्छ्, शस्तम्, तु, शरीरालस्य, शान्तये |
61 | त एते सप्तदश च मृगयाष्टादशी तथा । हेयाहेयाः पुरा प्राह भीष्मो धर्मात्मजं यथा ॥ ३१ ॥ | त*, एते, सप्तदश, च, मृगयाष्, टाद्, अशी, तथा, हेयाहेयाः, पुरा, प्राह, भीष्मो*, धर्मात्मजम्, यथा |
62 | व्यसनानि च सर्वाणि त्यजेथा भूरिदक्षिण । न चैव न प्रयुञ्जीत संगं तु परिवर्जयेत् ॥ ३२ ॥ | व्यसनानि, च, सर्वाणि, त्यजेत्, हा*, भूरिदक्षिण, न, चै, ऐव, न, प्रयुञ्जी, इत, सङ्गम्, तु, परि, व, अर्जयेत् |
63 | इति श्रीरुद्रदेवविरचिते श्यैनिके शास्त्रे व्यसनहेयाहेयतानिरूपणो द्वितीयः परिच्छेदः ॥ ३४ ॥ | इति, श्रीरुद्र, देववि, रचिते, श्यैनिके, शास्त्रे, व्यसन, हेयाहेय, तानि, रूपणो, द्वितीयः, परिच्छेदः |
64 | इत्थमत्र परिचिन्त्य लाघवं गौरवं च गुणयोगतः पृथक् । संगमात्रमपहाय योजयेत् रञ्जनाय जगतो यथायथम् ॥ ३३ ॥ | इत्थम्, अत्र, परिचिन्त्य, लाघवम्, गौरवम्, च, गुणयोग, तः, पृथक्, सङ्गमात्रम्, अपहाय, योजयेत्, रञ्जनाय, जगतो*, यथायथम् |
65 | सर्वर्तुषु दिवास्वप्नः सोऽपि व्यक्तार्थ एव हि । बालातिसारिक्षीणेषु स चाजीर्णिषु शोभनः ॥ ३० ॥ | सर्वर्तुषु, दिवास्वप्नः, सोऽ, अपि, व्यक्ता, आर्थ*, एव, हि, बाला, अतिसारि, क्षीणेषु, स, चा, अजीर्णिषु, शोभनः |
66 | अथेदानीं मृगव्या तु समासव्यासयोगतः । एकापि चाष्टधा सैषा बहुधात्र निरूप्यते ॥ १ ॥ | अथे, इदानीम्, मृगव्या, तु, समासव्यासयोगतः, एका, अपि, चाष्, ट, धा, सै, ऐषा, बहुधा, अत्र, निरूप्यते |
67 | आमिषाद्यर्थसंसिद्ध्यै नैकोपायैः सुखाय च । हिंसनं प्राणिमात्रस्य मृगयेति प्रचक्षते ॥ २ ॥ | आमिषाद्, य, अर्थ, संसिद्ध्यै, नैको, उपायैः, सुखाय, च, हिंसनम्, प्राणिमात्र, अस्य, मृगये, इति, प्र, चक्षते |
68 | हिंसनं प्राणिनां यत्र तत्र दोषपरम्परा । यागीयाः पशवः प्रोक्ता ग्राम्यारण्याश्चतुर्दश ॥ ३ ॥ | हिंसनम्, प्राणिनाम्, यत्र, तत्र, दोषपरम्परा, या, गीया, अः, पशवः, प्रोक्ता*, ग्राम्यारण्याश्, चतुर्दश |
69 | एषामप्रोक्षितानां च हिंसा दोषाय जायते । अस्मिनर्थे पुरा श्लोका यथा द्वैपायनोदिताः ॥ ४ ॥ | एषाम, प्रोक्षितानाम्, च, हिंसा*, दोषाय, जायते, अस्मिन्, अर्थे, पुरा, श्लोका*, यथा, द्वैपायनो, उदिताः |
70 | पाण्डुकिन्दमसंवादे मृगहिंसाप्रसंगतः । शत्रूणां या वधे वृत्तिः सा मृगाणां वधे स्मृता ॥ ५ ॥ | पाण्डुकिन्, दम, संवादे, मृग, हिंसा, प्रसङ्गतः, शत्रूणाम्, या*, वधे, वृत्तिः, सा*, मृगाणाम्, वधे, स्मृता |
71 | राज्ञां मृग न मां मोहात्त्वं गर्हयितुमर्हसि । अछद्मना मायया वा मृगाणां वध इष्यते ॥ ६ ॥ | राज्ञाम्, मृग, न, माम्, मोहात्, त्वम्, गर्हयितुम्, अर्हसि, अ, छद्मना, मायया, वा*, मृगाणाम्, वध*, इष्यते |
72 | अगस्त्यप्रोक्षणाद्धिंसा मृगव्यायां न वर्तते । ग्राम्याणां प्रोक्षणं शस्तं यागादिषु यथाविधि ॥ ८ ॥ | अगस्त्य, प्रोक्षणाद्ध्, हिंसा*, मृगव्याया, अम्, न, वर्तते, ग्राम्याणाम्, प्रोक्षणम्, शस्तम्, यागाद्, इषु, यथाविधि |
73 | अगस्त्यः सत्रमासीनश्चचार मृगयां ऋषिः । आरण्यान् सर्वदैवत्यान्पशून्प्रोक्षन्महावने ॥ ७ ॥ | अगस्त्यः, सत्रम्, आसीनश्, चचार, मृगयाम्, ऋषिः, आरण्यान्, सर्वदैवत्यान्, पशून्, प्रो, उक्षन्, महावने |
74 | आरण्यानां ह्यगस्त्यस्य प्रोक्षाच्छस्यते वधः । श्रूयन्ते चेतिहासाश्च राज्ञां तस्या निषेवने ॥ ९ ॥ | आरण्यानाम्, ह्य, अगस्त्यस्य, प्रोक्षाच्छ्, शस्यते, वधः, श्रूयन्ते, चेति, हासाश्, च, राज्ञाम्, तस्या*, निषेव, ने |
75 | व्यायामाच्चोपघाताच्च प्रत्युतायासवेदनम् । यत्र तत्र सुखायेति व्यर्थं चेत्तत्र कथ्यते ॥ १० ॥ | व्यायामाच्, चोप, घाताच्, च, प्रत्युता, आयास, वेदनम्, यत्र, तत्र, सुखाये, इति, व्यर्थम्, चे, त्त, त्र, कथ्यते |
76 | यथा प्रसह्य मानिन्याश्चुम्बनालिङ्गनादिकम् । आयाससाध्यमप्यन्तर्न नाम मुदमञ्चति ॥ ११ ॥ | यथा, प्रसह्य, मानिन्याश्, चुम्बनालिङ्गना, अदिकम्, आयास, साध्यम्, अप्य, अन्तर्, न, नाम, मुदम्, अञ्चति |
77 | प्रहारो नखदन्तादेर्यथैव स्मरसंगरे । उपघातस्तथैवात्र रसावेशान्न वा रुजे ॥ १२ ॥ | प्रहारो*, नखदन्ताद्, एर्य, अथै, ऐव, स्मर, सङ्गरे, उपघातस्, तथै, एवात्, र, रसावे, ईशान्न्, अ, वा*, रुजे |
78 | इति सिद्धं लक्षणं हि मृगयायाः पुरोदितम् । तस्याः किलाष्टभेदानां विवेचनमथोच्यते ॥ १३ ॥ | इति, सिद्धम्, लक्षणम्, हि, मृगयायाः, पुरो, उदितम्, तस्याः, किलाष्, ट, भेदानाम्, विवेचनम्, अथो, उच्यते |
79 | हरमूर्तिरिवावस्थाभेदादेकैव कामिनी । यथाष्टधा रसायालं तथैव मृगया मता ॥ १४ ॥ | हरमूर्तिर्, इवा, अवस्था, अभेदाद्, एकै, ऐव, कामिनी, यथा, अष्टधा, रसाया, अलम्, तथै, ऐव, मृगया*, मता |
80 | आश्वीनान्या सजालान्या काल्यान्या यावशी परा । सापेक्षान्या पदप्रेक्षा तथा श्वगणिका परा ॥ १५ ॥ | आश्वीनान्या, सजालान्या, काल्यान्या, यावशी, परा, सापेक्षान्, या, पदप्रेक्षा, तथा, श्वगणिका, परा |
81 | श्येनपाताष्टमी चैताः क्रमेण परिकीर्तिताः । स्वलक्षणमथैषां हि तथाकर्तव्यतोच्यते ॥ १६ ॥ | श्येनपाताष्, टम्, ई, चै, एताः, क्रमेण, परिकीर्तिताः, स्वलक्षणम्, अथै, एषाम्, हि, तथा, कर्तव्यतो, उच्यते |
82 | तुरगैः साधनीभूतैर्विद्रवन्तः शरादिभिः । वध्यन्ते हि मृगा यस्यां साश्वीना रसशेवधिः ॥ १७ ॥ | तुरगैः, साधनीभूतैर्, विद्रवन्तः, शरादिभिः, वध्यन्, ते, हि, मृगा*, यस्याम्, सा, अश्वीना*, रसशेवधिः |
83 | अवृक्षकर्दमग्रावा नीरन्ध्रा भूः प्रशस्यते । कालश्च शिशिरार्धान्तादा ज्यैष्ठार्धमपीष्यते ॥ १८ ॥ | अवृक्ष, कर्दम, ग्रावा*, नीरन्ध्रा*, भूः, प्रशस्यते, कालश्, च, शिशिरार्धान्, ताद्, आ*, ज्यैष्ठार्धम्, अपी, इष्यते |
84 | तस्याः सुसेवनान्मेदश्छेदो वपुषि लाघवम् । बलाशोपचयो दार्ढ्यमन्तराग्नेश्च पाटवम् ॥ १९ ॥ | तस्याः, सुसे, वनान्, मेदश्छेदो*, वपुषि, लाघवम्, बला, अशो, उपचयो*, पाटवम् |
85 | क्षुत्तृट्शीतातपालस्यजागरादेः सहिष्णुता । चललक्ष्यादिनैपुण्यमुत्साहपरिवर्धनम् ॥ २० ॥ | क्षुत्, तृट्, शीतात्, अपालस्य, जागराद्, एः, सहिष्णुता, चललक्ष्या, आदि, नैपुण्यम्, उत्साह, परिवर्धनम् |
86 | स्वसत्त्वोद्भावनं ज्ञानं सत्त्वानां चित्तचेष्टिते । इत्यादिकगुणोत्कर्षो जायते चात्मसम्पदे ॥ २१ ॥ | स्व, सत्त्वोद्भावनम्, ज्ञानम्, सत्त्वानाम्, चित्तचेष्टिते, इत्यादि, क, गुणोत्कर्षो*, जायते, चात्, मसम्, पदे |
87 | नैककर्म्मोपयोग्यानामटवीनां निरीक्षणात् । वित्रासनाच्च चौराणां तथाटविकरञ्जनात् ॥ २३ ॥ | निरीक्षणात्, वित्रासनाच्, च, चौराणाम्, तथा, आटविक, रञ्जनात् |
88 | तथा धर्म्मार्जनमपि वृकव्याघ्रादिहिंसनात् । वधेन हरिणादीनां शस्यादीनां च रक्षणात् ॥ २२ ॥ | तथा*, धर्म्मार्जनम्, अपि, वृक, व्याघ्रा, अदि, हिंसनात्, वधेन, हरिणाद्, ईनाम्, शस्याद्, ईनाम्, च, रक्षणात् |
89 | वराहलाविकादीनां सन्मांसाभ्यवहारतः । उद्रिक्तसत्त्वसम्पत्त्या कामोद्रेकोऽपि पुष्कलः ॥ २५ ॥ | वराह, लाविकाद्, ईनाम्, सन्मांसा, अभ्यवहार, तः, उद्रिक्त, सत्त्व, सम्पत्त्या, कामोद्रेकोऽ, अपि, पुष्कलः |
90 | रसोऽभिमानोऽहंकारः कामसर्वस्वमुच्यते । अतो मृगव्याश्रान्तस्य चन्दनाद्यनुलेपनम् ॥ २६ ॥ | रसोऽ, अभिमानोऽ, अहङ्कारः, काम, सर्वस्वम्, उच्यते, अतो*, मृगव्याश्रान्तस्य, चन्दनाद्य, अनुलेपनम् |
91 | तथार्थोपार्ज्जनं मत्तहस्तिगण्डानुबन्धनात् । विषाणाजिनकस्तूरिमणिपक्षाद्युपार्ज्जनात् ॥ २४ ॥ | मत्तहस्ति, गण्डा, अनुबन्धनात् |
92 | गात्रसंवाहनं हस्तपल्लवैश्च मृगीदृशाम् । पानकं पञ्चसारादि तालवृन्तानिला मुहुः ॥ २७ ॥ | गात्रसंवाहनम्, हस्तपल्लवैश्, च, मृगीदृशाम्, पानकम्, पञ्चसारा, अदि, तालवृन्तानि, ला* |
93 | मनसो ह्यभिमानेन यथा सम्बन्धमृच्छति । अन्यदा न तथा येन तेन कामैकवेदनम् ॥ २८ ॥ | मनसो*, ह्य, अभिमानेन, यथा, सम्बन्धम्, ऋच्छति, अन्यदा, न, तथा*, येन, तेन, कामै, ऐक, वेदनम् |
94 | स्त्रीमृगव्याभिदा कापि रसपुष्टौ च दृश्यते । शास्त्रकारैः किलैतावान् सूक्ष्मभेदस्तु दर्शितः ॥ २९ ॥ | स्त्रीम्, ऋग्, अव्या, भिदा, कापि, रसपुष्टौ, च, दृश्यते, शास्त्रकारैः, किलै, एतावान्, सूक्ष्मभेदस्, तु, दर्शितः |
95 | आभ्यासिकी सम्प्रयोगे प्रीतिश्चानुत्तमा रतौ । विभावाश्चानुभावाश्च रसाधिक्यात्तयोः समाः ॥ ३० ॥ | आभ्या, आसिक्, ई, सम्प्रयोगे, प्रीतिश्, चान्, उत्तमा*, रतौ, विभावाश्, चान्, उभावा, आश्, च, रसा, आधिक्यात्, तयोः, समाः |
96 | संयोगविप्रयोगाभ्यां विलोक्यन्ते यथायथम् । तेषां स्त्रीविषये व्यासो नाट्यालंकारनिर्मितौ ॥ ३१ ॥ | संयोग, विप्रयोगाभ्याम्, विलोक्य, अन्ते, यथायथम्, तेषाम्, स्त्रीविषये, व्यासो*, नाट्यालङ्कार, निर्मितौ |
97 | कामशास्त्रादिषु महान्दृश्यते तेन नोच्यते । मृगयायास्तु संक्षेपात्परिज्ञानाय कथ्यते ॥ ३२ ॥ | कामशास्त्राद्, इषु, महान्, दृश्यते, तेन, नो, उच्यते, मृगयायास्, तु, सङ्क्षेपात्, परिज्ञानाय, कथ्यते |
98 | मोक्तुर्दूराच्छकुन्तादेर्ग्रहः श्येनादिभिः कृतः । धन्विनश्च हठाल्लक्ष्ये शरसिद्धिश्चलाचले ॥ ३३ ॥ | मोक्तुर्, दूराच्छ्, शकुन्ताद्, एर्, ग्रहः, श्येनाद्, इभिः, कृतः, धन्विनश्, च, हठाल्, लक्ष्ये, शर, सिद्धिश्, चलाचले |
99 | व्यञ्जयत्युत्तमां प्रीतिं अश्रुरोमाञ्चगद्गदैः । विच्युतिश्चापि तस्यैव वियोगेनापदिश्यते ॥ ३४ ॥ | व्य, अञ्जयत्यु, उत्तमाम्, प्रीतिम्, अश्रुर्, ओमा, अञ्च, गद्गदैः, विच्युतिश्, चापि, तस्यै, ऐव, वियोगेना, अपदि, श्यते |
100 | वितर्कस्मृतिवैवर्ण्यविलापादिकरी यतः । इत्याद्यूह्यमतः साम्यं मृगयायास्तथा स्त्रियः । तेनैषापि त्रिवर्गस्य साधनाय प्रशस्यते ॥ ३५ ॥ | वितर्क, स्मृति, वैवर्ण्य, विलापा, आदिक, री, यतः, इत्याद्यू, ऊह्यम्, अतः, साम्यम्, मृगयायास्, तथा, स्त्रियः, तेनै, ऐषा, अपि, त्रिवर्गस्य, साधनाय, प्रशस्यते |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.